प्रणवो वाग्भवं माया कमला व्योम चन्द्रमाः । चण्डीशश्च शिखीशश्च वह्निझिंटीशबिन्दुभाक् ॥ 55.22
Pranava ॐ, vagbhava ऐं, maya ह्रीं, kamala श्रीं, then the first kuta ह्स्ख्फ्रें.
अयमेकः सुमन्त्रज्ञैः कूटमन्त्र उदाहृतः । व्योमशीतांसुवर्गान्त्यमहाकालीशभूसुधा ॥ 55.23
वह्निः समीरणोऽर्धीशबिन्दुयुक्तो द्वितीयकः । कूटमन्त्रः समाख्यातः सकलागमवेदिभिः ॥ 55.24
The second kuta is हसक्षमलवरयूं.
प्रथमः पुनराकाशचन्द्रव्यत्यासतो भवेत् । द्वितीयः पुनरूकारस्थाने ईकारयुग्भवेत् ॥ 55.25
The four bijas and both kutas are then repeated: the first with ha and sa swapped (स्ह्ख्फ्रें), the second with ई in place of ऊ (सहक्षमलवरयीं).
रां रामचन्द्रसहजानन्दिनीयुग्मपूर्वकम् । श्रीपादुकां पूजयामि नम इत्यन्ततो वदेत् ॥ 55.26
It ends with रां, रामचन्द्रसहजानन्दिनी said twice, and श्रीपादुकां पूजयामि नमः. Text as given by Ramesh Kutticad and the Varanasi vidhi; please confirm the bijas with your guru before printing.